|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.153. अध्यायः 153
Mahabharata - Drona Parva - Chapter Topics
दुर्योधनेन कर्णंप्रति जयद्रथवधे द्रोणस्य पार्थपक्षपातादौदासीन्यस्य हेतुत्वेऽभिहिते कर्णेन तन्निराकरणपूर्वकं दैवस्यैव तत्र हेतुत्वकथनम्॥ 1 ॥ रात्रियुद्धारम्भः॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-153-0x(4671)(51718)
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः।
अमर्षवशमापन्नो युद्धायैव मनो दधे।
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव॥ 7-153-1(51719)
पश्य कृष्णसहायेन पाण्डवेन किरीटिना।
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम्॥ 7-153-2(51720)
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः।
मिषतां योधमुख्यानां सैन्धवो विनिपातितः॥ 7-153-3(51721)
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि।
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः॥ 7-153-4(51722)
मम व्यायच्छमानस्य समरे शत्रुसूदन।
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह॥ 7-153-5(51723)
कथं वै युध्यमानस्य द्रोणस्य युधि फल्गुनः।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे॥ 7-153-6(51724)
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः॥ 7-153-7(51725)
पश्य राधेय पृथ्वीशान्पृथिव्यां पातितान्बहून्।
पार्थेन निहतान्सङ्ख्ये महेन्द्रोपमविक्रमान्॥ 7-153-8(51726)
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः।
भिन्द्यात्सुदुर्भिदं व्यृहं यतमानस्य शुप्मिणः॥ 7-153-9(51727)
दयितः फल्गुनो नित्यमाचार्यस्य महात्मनः।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन्॥ 7-153-10(51728)
अभयं सिन्धुराजाय दत्त्वा द्रोणः परन्तपः।
प्रादात्किरीटिने द्वारं पश्यन्निर्गुणतां मयि॥ 7-153-11(51729)
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति।
प्रम्थातुं सिन्धुराजस्य न भवेज्जीवितक्षयः॥ 7-153-12(51730)
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे॥ 7-153-13(51731)
`रक्षामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः।
मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः॥ 7-153-14(51732)
तस्य मे मन्दभाग्यस्य यतमानस्य संयुगे।
हतानि सर्वसैन्यानि हतो राजा जयद्रथः॥ 7-153-15(51733)
पश्य योधवरान्कर्ण शतशोऽथ सहस्रशः।
पार्थनामाङ्कितैर्वाणैः सर्वे नीता यमक्षयम्॥ 7-153-16(51734)
कथमेकरथेनाजौ बहूनां नः प्रपश्यताम्।
विपन्नः सैन्धवो राजा योधाश्चैव सहस्रशः'॥ 7-153-17(51735)
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे।
भामसनं समासाद्य पश्यतां नोदुरात्मनाम्॥ 7-153-18(51736)
कर्ण उवाच। 7-153-19x(4672)
आचार्यं मा विगर्हस्व शक्त्याऽसौ युध्यते द्विजः।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः॥ 7-153-19(51737)
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः।
नात्र सूक्ष्मोऽपि दोषःस्यादाचार्यस्य कथञ्चन॥ 7-153-20(51738)
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम्॥ 7-153-21(51739)
कृष्णेन च गृहीताश्वमभेद्यकचावृतः।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान्॥ 7-153-22(51740)
प्रवर्षन्निशितान्बाणान्बाहुद्रविणदर्पितः।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत्॥ 7-153-23(51741)
आचार्यः स्थविरो राजञ्शीघ्रयाने तथाऽक्षमः।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप॥ 7-153-24(51742)
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना॥ 7-153-25(51743)
अजय्यान्पाण्डवान्मन्ये द्रोणोनास्त्रविदा मृधे।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः॥ 7-153-26(51744)
सततं चेष्टमानानां निकृत्या विक्रमेण च।
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित्॥ 7-153-27(51745)
यतो नो युध्यमानानां परं शक्त्या सुयोधन।
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम्॥ 7-153-28(51746)
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे।
हत्वाऽस्माकं पौरुषं वै दैवं पश्चात्करोति नः॥ 7-153-29(51747)
दैवोपसृष्टपुरुषो यत्कर्म कुरुते क्वचित्।
कृतं कृतं हि तत्तस्यट दैवेन विनिपात्यते॥ 7-153-30(51748)
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता॥ 7-153-31(51749)
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः॥ 7-153-32(51750)
राजनीतिं समाश्रित्य प्रहिताश्चैव काननम्।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम्॥ 7-153-33(51751)
युध्यस्व यत्नमास्थय दैवं कृत्वा निरर्थकम्।
यततस्तव तेषां च दैवं मार्गेण यास्यति॥ 7-153-34(51752)
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित्।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह॥ 7-153-35(51753)
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि।
`तेन युक्तो हि पुरुषः कार्याकार्ये नियुज्यते'॥ 7-153-36(51754)
बहूनि तव सैन्यानि योधाश्च बहवस्तव।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत॥ 7-153-37(51755)
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः।
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम्॥ 7-153-38(51756)
सञ्जय उवाच। 7-153-39x(4673)
एवं संभाषमाणानां बहु तत्तज्जनाधिप।
पाण्डवानामनीकानि समदृश्यन्त संयुगे॥ 7-153-39(51757)
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्।
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव॥ ॥ 7-153-40(51758)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिपञ्चाशदधिकशततमोऽध्यायः॥ 153 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-153-12 यद्यदास्यत् दद्याच्चेदित्यर्थः। सिन्धुराजस्य नाभविध्यज्जनक्षय इति झ. पाठः॥ 5-153-27 अन्यथाभावः पराजयो दैवादिष्टः। नतु द्रोणापराधज इति भावः॥ दैवदृष्ट्याऽन्यथाभावो न मन्युर्विद्यते क्वचित् इति क. पाठः। दैवदिष्टान्यथाभावो न मन्युर्विद्यते क्वचित् इति ख.पाठः॥ 5-153-30 दैवोपसृष्टो दुर्दैवप्रस्तः॥ 5-153-35 तेषां जयहेतुः सुकृतं तव वा पराजयहेतुः दुष्कृतं नास्तीत्याह। न तेषामिति॥ 5-153-153 त्रिषञ्चाशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|